Sale!

Sankhya Darshan (सांख्य-दर्शन)

Original price was: ₹700.00.Current price is: ₹550.00.

Author Ramshankar Bhattacharya
Publisher Bharatiya Book Corporation
Language Sanskrit & Hindi
Edition 1st edition, 2022
ISBN 978-81-85122-90-8
Pages 339
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Categories: ,

Description

सांख्य दर्शन (Sankhya Darshan) अद्यत्वे सांख्यसूत्रस्य चत्वारि व्याख्यानानि प्रचलन्ति- अनिरुद्धकृता वृत्तिः, विज्ञानभिक्षुकृतं सांख्यप्रवचनभाष्यम्; महादेव-वेदान्तिकृतो वृत्तिसारः, नागेशकृता सांख्यसूत्रवृत्ति भिक्षुभाष्यसारसंग्रह-नामधेया। साँख्यसूत्रस्यास्य अन्या काचन व्याख्या प्रणीता नवेति न निश्चप्रच कथयितुं शक्यते। सांख्यसूत्रव्याख्यानेषु अनि-रुद्धवृत्तिः सर्वप्राचीना; अस्यां खलु किमपि प्राचीनतरं व्याख्यानं न स्मृतम्। भाष्यादिष्वपि कस्यापि प्राचीनव्याख्याकारस्य व्याख्यानं न स्वर्यंते, अतः प्रतीयते सांख्यसूत्रमनिरुद्धात् प्राङ न केनापि व्याख्यातमिति। यदि व्याख्यतमपि भवेत तर्ताह न तद् व्याख्यानं विज्ञातमेभिव्र्याख्याकारैः। अनयोः प्रथमः पक्ष एव समीचीन इत्यास्माकीनी दृष्टिः।

अनिरुद्धवृत्तेः प्राचीनत्वात्, स्वल्पाक्षरवत्त्वाच्च सा व्याख्याता बहुभिर्भावद्वद्भिः। एषु व्याख्यानेषु प्रमबनायतकंभूषणकृता ‘अमला’ टीका, कुञ्जविहारितर्कसिद्धान्तकृता ‘तत्त्वबोधिनी’ टीका च अध्येतुमण्डलीषु प्रसिद्धा। अस्या वृत्तेः सारं संगृह्य महादेव-वेदान्तिना वृत्तिसारः प्रणोत इति विज्ञायते।

विज्ञानभिक्षुक्कृतभाष्यस्य न माचिदपि व्याख्या प्रणीता केनापि विदुषा। यद्यपि सुवोधया संस्कृतवाचा भाप्यमिदं रचित मतो नास्य प्रतिपदव्याख्यानकारिणी टीकाऽपेक्ष्यते, तथापि खण्डनपरेषु वाक्येषु सापेक्ष्यत एव। अस्माभिस्तु ज्योतिष्मती-व्याख्यायां व्याख्यानार्हाणि वाक्यान्येव व्याख्यातानि। नागेशकृतायां वृत्ती भाष्यतात्पर्य सुष्ठुप्रदर्शितं सर्वत्र। भाष्यस्य विपुलतां दृष्ट्वैव नागेशेनेयं लघ्वो वृत्तिः प्रणीता-अध्येतारो यया भाष्याचं सुखेनावगच्छेयुरिति।